|
|
 |
 |
|
|
५ उद्योगपर्व.jpg)
॥ श्रीः ॥
5.173. अध्यायः 173
Mahabharata - Udyoga Parva - Chapter Topics
शिखण्डिनोऽसंहरणकारणप्रश्ने तत्कथनाय भीष्मेण दुर्योधनंप्रति अम्बोपाख्यानकथनारम्भः ॥ 1 ॥ तथा स्वयंवरे स्वेन अम्बादिकन्यात्रयहरणकथनम् ॥ 2 ॥

Mahabharata - Udyoga Parva - Chapter Text
दुर्योधनं उवाच। 5-173-0x(3880)(37796)
किमर्थं भरतश्रेष्ठ नैव हन्याः शिखण्डिनम् ।
उद्यतेषुमथो दृष्ट्वा समरेष्वाततायिनम् ॥ 5-173-1(37797)
पूर्वमुक्त्वा महाबाहो पाञ्चालान्सह सोमकैः ।
हनिष्यामीति गाङ्गेय तन्मे ब्रूहि पितामह ॥ 5-173-2(37798)
भीष्म उवाच। 5-173-3x(3881)
श्रृणु दुर्योधन कथां सहैभिर्वसुधाधिपैः ।
यदर्थं युधि संप्रेक्ष्य नाहं हन्यां शिखण्डिनम् ॥ 5-173-3(37799)
महाराजो मम पिता शान्तनुर्लोकविश्रुतः ।
दिष्टान्तमाप धर्मात्मा समये भरतर्षभ ॥ 5-173-4(37800)
ततोऽहं भरतश्रेष्ठ प्रतिज्ञां परिपालयन् ।
चित्राङ्गदं भ्रातरं वै महाराज्येऽभ्यपेचयम् ॥ 5-173-5(37801)
तस्मिंश्च निधनं प्राप्ते सत्यवत्या मते स्थितः ।
विचित्रवीर्यं राजानमभ्यषिञ्चं यथाविधि ॥ 5-173-6(37802)
मयाऽभिषिक्तो राजेन्द्र यवीयानपि धर्मतः ।
विचित्रवीर्यो धर्मात्मा मामेव समुदैक्षत ॥ 5-173-7(37803)
तस्य दारक्रियां तात चिकीर्षुरहमप्युत ।
अनुरूपादिव कुलादित्येव च मनो दधे ॥ 5-173-8(37804)
तथाऽश्रौषं महाबाहो तिस्रः कन्याः स्वयंवरे ।
रूपेणाप्रतिमाः सर्वाः काशिराजसुतास्तदा ।
अम्बां चैवाम्बिकां चैव तथैवाम्बालिकामपि ॥ 5-173-9(37805)
राजानश्च समाहूताः पृथिव्यां भरतर्षभ।
अम्बा ज्येष्ठाभवत्तासामम्बिका त्वथ मध्यमा ॥ 5-173-10(37806)
अम्बालिका च राजेन्द्र राजकन्या यवीयसी ।
सोऽहमेकरथेनैव गतः काशिपतेः पुरीम् ॥ 5-173-11(37807)
अपश्यं ता महाबाहो तिस्रः कन्याः स्वलङ्कृताः।
राज्ञश्चैव समाहूतान्पार्थिवान्पृथिवीपते ॥ 5-173-12(37808)
ततोऽहं तान्नृपान्सर्वानाहूय समरे स्थितान्।
रथमारोपयाञ्चक्रे कन्यास्ता भरतर्षभ ॥ 5-173-13(37809)
वीर्यशुल्काश्च ता ज्ञात्वा समारोप्य रथं तदा।
अवोचं पार्थिवान्सर्वानहं तत्र समागतान्।
भीष्मः शान्तनवः कन्या हरतीति पुनःपुनः ॥ 5-173-14(37810)
ते यतध्वं परं शक्त्या सर्वे मोक्षाय पार्थिवाः ।
प्रसह्य हि हराम्येष मिषतां वो नरर्षभाः ॥ 5-173-15(37811)
ततस्ते पृथिवीपालाः समुत्पतुरुदायुधाः ।
योगो योग इति क्रुद्धाः सारथीनभ्यचोदयन् ॥ 5-173-16(37812)
ते रथैर्गसङ्काशैर्गजैश्च गजयोधिनः।
पुष्टैश्वाश्वैर्महीपालाः समुत्पेतुरुदायुधाः ॥ 5-173-17(37813)
ततस्ते मां महीपालाः सर्व एव विशां पते।
रथव्रातेन महता सर्वतः पर्यवारयन् ॥ 5-173-18(37814)
तानहं शरवर्षेण समन्तात्पर्यवारयम् ।
सर्वान्नृपांश्चाप्यजयं देवराडिव दानवान् ॥ 5-173-19(37815)
अपातयं शरैर्दीप्तैः प्रहसन्भरतर्षभ ।
तेषामापततां चित्रान्ध्वजान्हेमपरिष्कृतान् ॥ 5-173-20(37816)
एकैकेन हि बाणेन भूमौ पातितवानहम् ।
हयांस्तेषां गजांश्चैव सारथींश्चाप्यहं रणे ॥ 5-173-21(37817)
ते निवृत्ताश्च भग्नाश्च दृष्ट्वा तल्लाघवं मम। 5-173-22b`प्रणिपेतुश्च सर्वे वै प्रशशंसुश्च पार्थिवाः॥ 5-173-22(37818)
तत आदाय ताः कन्या नृपतींश्च विसृज्य तान्।'
अथाऽहं हास्तिनपुरमायां जित्वा महीक्षितः ॥ 5-173-23(37819)
ततोऽहं ताश्च कन्या वै भ्रातुरर्थाय भारत।
तच्च कर्म महाबाहो सत्यवत्यै न्यवेदयम् ॥ ॥ 5-173-24(37820)
इति श्रीमन्महाभारते उद्योगपर्वणि अम्बोपाख्यानपर्वणि त्रिसप्तत्यधिकशततमोऽध्यायः ॥
Mahabharata - Udyoga Parva - Chapter Footnotes
5-173-4 दिष्टान्तं मरणम् ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|